भृगुऋषी विरचित दुर्लभ दत्तस्तोत्रम, इस दुर्लभ स्तोत्र का पाठ भगवान दत्तात्रेय की कृपाप्राप्ति का मार्ग सुलभ करता है ..

भृगु ऋषी द्वारा रचित भगवान दत्तात्रेय के इस दुर्लभ स्तोत्र का पाठ भगवान दत्तात्रेय की कृपाप्राप्ति का मार्ग सुलभ करता है ..

 

ध्यान :-

बालार्कप्रभमिंद्रनीलजटिलं
भस्मांगरागोज्वलं शांतं
नादविलीनचित्तपवनं शार्दुलचर्मांबरं !!
ब्रह्मज्ञै: सनकादिभि: परिवृत्तं
सिद्धैसमाराधितं आत्रेयं समुपास्महे
हृदि मुदा ध्येयं सदा योगिभि: !!
दिगंबरं भस्मविलेपितांगं चक्रं त्रिशूलं डमरुं गदां च !
पद्मासनस्थं शशिसूर्यनेत्रं दत्तात्रेयं ध्येयमभीष्टसिद्धये !!

स्तोत्र :-

 

ॐ नमो श्रीगुरुं दत्तं दत्तदेवं जगद्गुरुं !

निष्कलंनिर्गुणंवंदे दत्तात्रेयं नमाम्यहम !! 1 !!

ब्रह्मा लोकेश भूतेशशंख चक्र गदाधरं !

पाणिपात्रधरं देवं दत्तात्रेयं नमाम्यहम !! 2 !!

सुरेशवंदितं देवंत्रैलोक्यलोकवंदितं !
हरीहरात्मकं वंदे दत्तात्रेयं नमाम्यहम !! 3 !!

निर्मलं नीलवर्णं च सुंदरं श्यामशोभितं !
सुलोचनं विशालाक्षंदत्तात्रेयं नमाम्यहम !! 4 !!

त्रिशूलं डमरुं मालां जटामुकुटमंडितम !
मंडितं कुंडलं कर्णे दत्तात्रेयं नमाम्यहम !! 5 !!

विभूतिभूषितं देहं हारकेयूरशोभितं !
अनंतप्रणवाकारं श्री दत्तात्रेयं नमाम्यहम !! 6 !!

प्रसन्नवदनं देवं भुक्तिमुक्तिप्रदायकं !
जनार्दनं जगत्त्राणं दत्तात्रेयं नमाम्यहम !! 7 !!

राजराजं मिताचारं कार्तवीर्यवरप्रदं !
सुभद्रं भद्र कल्याणं दत्तात्रेयं नमाम्यहम !! 8 !!

अनसूयाप्रियकरं अत्रिपुत्रं सुरेश्वरं !

विख्यात योगिनां मोक्षं दत्तात्रेयं नमाम्यहम !! 9 !!

दिगंबरतनुं श्रेष्ठं ब्रह्मचर्यव्रते स्थितं !

हंसं हंसात्मकं नित्यं दत्तात्रेयं नमाम्यहम !! 10 !!

कदा योगी कदा भोगीबाललीलाविनोदक: !
दशनै रत्नसंकाश:दत्तात्रेयं नमाम्यहम !! 11 !!

भूतबाधाभवत्रासो ग्रहपीडा तथैव च !
दरिद्रव्यसनध्वंसी दत्तात्रेयं नमाम्यहम !! 12 !!

चतुर्दश्यां बुधे वारे जन्म मार्गशिरे शुभे !
तारकं विपुलं वंदे दत्तात्रेयं नमाम्यहम !! 13 !!

रक्तोत्पलदलं पादं सर्वतीर्थसमुद्भवं !
वंदितं योगिभि: सर्वै: दत्तात्रेयं नमाम्यहम !! 14 !!

ज्ञानदाता प्रभु: साक्षात गतिर्मोक्षप्रदायिने !
आत्मभूरीश्वर: कृष्ण: दत्तात्रेयं नमाम्यहम !! 15 !!

भृगुविरचितं इदं दत्तात्रेय पारायणान्वितं !
साक्षातयदवत स्वयं ब्रह्मा दत्तात्रेयं नमाम्यहम !! 16 !!

प्राणिनां सर्वजंतुनां कर्मपाशप्रभंजनं !
दत्तात्रेयस्तुति स्तोत्रं सर्वान कामान वाप्नुयात !! 17 !!

अपुत्रो लभते पुत्रं धनधान्यसमन्वित: !
राजमान्यो भवेत लक्ष्मीअप्राप्ति: प्राप्तिसंभवान !!18 !!

त्रिसंध्यं जपमानस्तुदत्तात्रेयस्तुति सदा !

तस्य रोगभयं नास्ति दीर्घायुर्विजयी भवेत !!19 !!

कूष्माण्ड डाकिनी पक्ष पिशाच ब्रह्मराक्षसा: !
स्तोत्रस्य श्रूतमात्रेण गच्छंति नात्र संशय: !! 20 !!

एतान विंशति श्लोकांवै आवर्ति कुरु विंशतिं !
तस्यावर्तसहस्त्राणि दर्शनं नात्र संशय: !! 21 !!

!!इतिश्रीभृगुविरचितंदत्तस्तोत्रं संपूर्णम !!
श्रीदत्तात्रेयार्पणमस्तु

Leave a Reply